(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.169. अध्यायः 169
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन स्वस्येन्द्रलोकगमनप्रकारस्य तत्रनिवासप्रकारकथनपूर्वकमिन्द्रादस्त्रप्राप्तिप्रकारस्यच कथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

अर्जुन उवाच। 3-169-0x(2310)(22438)
ततस्तामवसं प्रीतो रजनीं तत्र भारत।
प्रसादाद्देवदेवस्यत्र्यम्बकस्य महात्मनः ॥ 3-169-1(22439)
व्युषितो रजनीं चाहंकृत्वापौर्वाह्णिकीः क्रियाः।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ 3-169-2(22440)
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्।
भगवन्तं महादेवं समेतोस्मीति भारत ॥ 3-169-3(22441)
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ 3-169-4(22442)
समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ 3-169-5(22443)
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः।
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः ॥ 3-169-6(22444)
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ 3-169-7(22445)
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च।
शैशिरस्य गिरे पादे प्रादुरासन्समीपतः ॥ 3-169-8(22446)
वादित्राणिच दिव्यानि सुघोषाणि समन्ततः।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ 3-169-9(22447)
गणाश्चाप्सरसां तत्रगन्धर्वाणां तथैव च।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ 3-169-10(22448)
मरुतां च गणास्तत्र देवयानैरुपागमन्।
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ 3-169-11(22449)
ततो मरुत्वानहरिभिर्युक्तैर्वाहैः स्वलंकृतैः।
शचीसहायस्तत्रायात्सह सर्वैस्तदाऽमरैः ॥ 3-169-12(22450)
एतस्मिन्नैव काले तु कुबेरो नरवाहनः।
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥ 3-169-13(22451)
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यस्थितम्।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥ 3-169-14(22452)
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः।
सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान् ॥ 3-169-15(22453)
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम्।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ 3-169-16(22454)
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्।
प्रत्यगृह्णां तदाऽस्त्राणि महान्ति विविधानि च ॥ 3-169-17(22455)
गृहीतास्त्रस्ततो देवैरनुज्ञातोस्मि भारत।
अथ देवा ययुः सर्वेयथागतमरिंदम ॥ 3-169-18(22456)
मघवानपि मां देवो रथमारोप्य सुप्रभम्।
उवाच भगवान्वाक्यं स्मयन्निव महायशाः ॥ 3-169-19(22457)
पुरैवागमनादस्माद्वेदाहं त्वां धनंजय।
अतः परं त्वहं वै त्वां दर्शये भरत्रषभ ॥ 3-169-20(22458)
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्।
तपश्चेदं महत्त्प्तं स्वर्गं गन्तासि पाण्डव ॥ 3-169-21(22459)
भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्।
`दुश्चरं घोरमस्त्राणां तपोबलकरं तव' ॥ 3-169-22(22460)
स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन।
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ॥ 3-169-23(22461)
विदितस्त्वंहि देवानां मुनीनां च महात्मनाम्।
`इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम्' ॥ 3-169-24(22462)
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम।
आचार्यं वरयेऽहं त्वामस्त्रार्थं त्रिदशेश्वर ॥ 3-169-25(22463)
इन्द्र उवाच। 3-169-26x(2311)
क्रूरकर्माऽस्त्रवित्तात भविष्यसि परंतप।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ 3-169-26(22464)
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्।
मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात् ॥ 3-169-27(22465)
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप।
लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥ 3-169-28(22466)
इन्द्र उवाच। 3-169-29x(2312)
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ 3-169-29(22467)
शिक्ष मे भवनं गत्वासर्वाण्यस्त्राणि भारत।
वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात् ॥ 3-169-30(22468)
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥ 3-169-31(22469)
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥ 3-169-32(22470)
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ 3-169-33(22471)
लोकपालेषु यातेषु मामुवाचाथ मातलिः।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ 3-169-34(22472)
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्।
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ 3-169-35(22473)
देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥ 3-169-36(22474)
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्।
चोदयामास स हयान्मनोमारुतरंहसः ॥ 3-169-37(22475)
[मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः।
अवैक्षत च मे वक्रृंस्तितस्याथ ससारथिः।
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ 3-169-38(22476)
अत्यद्भुतमिदं त्वद्यविचित्रं प्रतिभाति मे।
यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ॥] 3-169-39(22477)
देवराजोऽपिहि मया नित्यमत्रोपलक्षितः।
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ 3-169-40(22478)
त्वं पुनः स्थित एवात्ररथे भ्रान्ते कुरूद्वह।
अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे ॥ 3-169-41(22479)
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्।
दर्शयामास मे राजन्विमानानि च भारत ॥ 3-169-42(22480)
[स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः।
ऋषयो देवताश्चैव पूजयन्ति नरोत्तम ॥ 3-169-43(22481)
ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम्।
गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ॥] 3-169-44(22482)
नन्दनादीनि देवानां वनान्युपवनानि च।
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः ॥ 3-169-45(22483)
ततः शक्रस्य भवनमपश्यभमरावतीम्।
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् ॥ 3-169-46(22484)
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः।
न बाधते तत्ररजस्तत्रास्ति न जरा नृप ॥ 3-169-47(22485)
न तत्रशोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते।
दिवौकसां महाराज न ग्लानिररिमर्दन।
न क्रोधलोभौ तत्रास्तामशुबं वा विशांपते ॥ 3-169-48(22486)
नित्यं तुष्टाश् ते राजन्प्राणिनः सुरवेश्मनि।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ 3-169-49(22487)
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः।
शीतस्तत्रववौ वायुः सुगन्धो वीजते शुभः ॥ 3-169-50(22488)
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः।
विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः ॥ 3-169-51(22489)
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्।
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ 3-169-52(22490)
ते मां वीर्येण यशसा तेजसा च बलेन च।
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च ॥ 3-169-53(22491)
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्।
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥ 3-169-54(22492)
ददावर्धासनं प्रीतः शक्रो मे ददतांवरः।
बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ 3-169-55(22493)
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः।
अस्त्रार्तमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत ॥ 3-169-56(22494)
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा।
स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ 3-169-57(22495)
तत्राहमवसं राजन्गृहीतास्त्रः सुपूजितः।
सुखं शक्रस् भवने सर्वकामसमन्वितः ॥ 3-169-58(22496)
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥ 3-169-59(22497)
तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ 3-169-60(22498)
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः।
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ 3-169-61(22499)

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-169-11 देवयानैर्विमानैः। देवसद्मनिवासिनः स्त्रीबालादयः शचीजयन्तादय इत्यर्थः ॥ 3-169-14 यथास्थानं प्राच्यामिन्द्रं प्रतीच्यां वरुणमित्यादि ॥ 3-169-27 अस्त्रस्यैव प्रतिघातार्थमस्त्रं मोक्ष्ये नत्वन्यत्र मानुषे ॥ 3-169-33 मायामयमिवात्यद्भुतम् ॥ 3-169-39 पदात् रस्थानात् न चलितः। रथस्य भ्रमणेपि दृढासन इत्यर्थः ॥ 3-169-44 सुरर्षिणमिति दैर्ध्याभाव आर्षः ॥ 3-169-53 अन्वजानन्त वीर्यादिमान्भवेत्याशीर्वादान्ददुरित्यर्थः ॥ 3-169-60 अनवज्ञाय आदृत्य। तथ्यं यथावत्। अत्यथै पुरुषार्थ इति विज्ञाय ॥ 3-169-61 तेन कामेन अस्त्रेच्छया नतु भोगेच्छया ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.